वीरनिर्वाणस्तुत्यादिसङ्ग्रहः

जिनप्रभसूरिविरचितो वीरनिर्वाणस्तवः

श्रीसिद्धार्थनरेन्द्रवंशकमलाशृङ्गारचूडामणेर्भव्यानां दुरपोहमोहतिमिरप्रोज्जासनेऽहर्मणेः।
कुर्वे किञ्चन काञ्चनोज्ज्वरुचेर्निर्वाणकल्याणकस्तोत्रं गोत्रभिदर्चनीयचरणाम्भोजस्य वीरप्रभोः॥१

प्राप्य देवशरदां द्विसप्ततिं शीतगौ पवनदैवतक्षमे।
तामुपायत रसेन (?) कार्तिकामावसी निशि शिवश्रियं भवान्॥२

हस्तिपालकनृपालपालिता पूर्न पूरयतु मन्मनःशुचा।
यत्र दर्श इव चन्द्रमा भवानस्तमाप भवतापहापनः॥३

ऊर्जुदर्शनिशि दर्शिताद्वयास्तत्र पुर्यखिलवर्णजाः प्रजाः।
त्वन्महोदयमहीतयाऽधुनाऽप्युत्सवं विदधतेऽनुवत्सरम्॥४

यैर्ध्वनिस्तव पपे श्रवःपुटैः षोडशप्रहरदेशनाविधौ।
तान्निवेश्य धन्यताजुषां रेखया न खलु सृप्यतेऽन्यतः॥५

पुण्यपापफलपाकवर्णनामध्यमध्ययनपङ्क्तियुक्छतम्।
व्याकृथाः स्फुटमपृष्टषट्कृतिव्याकृतीश्च परिषत्पुरस्तदा॥६

जीवति त्वयि जिनेन्द्रभूतिना त्वत्प्रणामविधिभङ्गभीरुणा।
नूनमैष्यत न देव! केवलज्ञानसम्पदनुरागभागपि॥७

यद्विधेयमुपदिश्य गौतमः प्रैषि भक्तिभृदपि त्वयाऽन्यतः।
रोगिणः कटुकजायुपानवज्ज्यायसेऽस्य चकॢपे गुणाय तत्॥८

त्वद्दिदृक्ष्ववतरत्सुरावली यानदेहमणिभूषणांशुभिः।
सा कुहूरजनिरस्ततामसा पूर्णिमानिशमुपाहसद्ध्रुवम्॥९

निर्वृते त्वयि विलोक्य विष्टपं ध्वान्तपूरपरिपूरितोदरम्।
रोदयन्त इव रोदसीं प्रतिश्रुद्भरेण रुरुदुः पुरन्दराः॥१०

वह्निवायुजलदेश्वरैः सुरैस्तैलपर्णिककृताङ्गसंस्कृतेः।
भूतिमात्रमपि भूतिधाम ते येऽस्पृशन् बत न तान् रजोऽस्पृशत्॥११

भक्तितो महितुमीश! वासवास्तावकीनहनुसङ्ग्रहं व्यधुः।
नूनमक्षविजयेन तावकानुग्रहेण हनुमत्त्वमिच्छवः॥१२

कुग्रहा न तव जातु शासनं वीर! बाधितुमलम्भविष्णवः।
एककः स खलु भस्मकग्रहो बाधते भवदुपेक्षितस्तदा॥१३

जग्मुषि त्वयि शिवं नराधिपास्तं क्षणं गृहिणीनबोधयन् (?)।
ये बभुः कुनयकाननप्लुषत्वत्प्रतापशिखिनः कणा इव॥१४

यन्न कश्चन मुनिस्त्वया समं मुक्तिमायदितरैर्जिनैरिव।
दुःषमासमयभावलिङ्गिनां व्याञ्जि तेन गुरुनिर्व्यपेक्षता॥१५

प्रस्थिते त्वयि शिवाय तत्क्षणं संमुमूर्छुरधिपृथ्वि कुन्थवः।
क्षुद्रजीव बहुकालमतः परं सूचयन्त इव भाविनीं महीम्॥१६

यत्र यत्र चरणौ त्वयाऽर्पितौ तत्तदास्पदमगादपापताम्।
एकया पुनरपापया पुरा पापयाजनि सुरोक्तिनामतः॥१७

यत्र मुक्तिमगमः शमद्रुमावाप पापतुदि नार्कतापतत्।
प्रीतिमीतितनुकुञ्जभञ्जने नागनागकरणं करोतु नः॥१८

यः पठत्यशठधीस्तव वीर! स्तोत्रमेतदवधानसमेतः।
तत्र भावरिपुराजिरयश्रीभाजि न प्रभवति प्रबलाऽपि॥१९

॥इति श्रीजिनप्रभसूरिविरचितः श्रीवीरनिर्वाणकल्याणकस्तवः॥

पं.गुणसागरगणिविरचिता दीपालिकास्तुतिचतुष्टयी

त्वया निर्वृतिर्भूषिताऽऽर्या यदानीं तदानीं महाराजराजैः कृतं सत्।
स्फुरद्दीपदीपालिकापर्ववर्यं महावीर! देव! प्रभो! पालयाऽस्मान्॥१

जिनश्रेणिका नायिका दायिका वा सुखस्याऽसमस्या शमस्या नमस्या।
ततोऽस्यावलस्याकरस्यादरस्या सशङ्का दिवौका अशोकार्यनाका॥२

जिनेशागमः सागमः सङ्गमः स्राक् प्रवृद्धः सुसिद्धः सुबद्धः प्रसिद्धः।
विबुद्धिः समृद्धिः प्रसिद्धिः प्रवृद्धिः क्षतामः सुरामः प्रकामः प्रवामः॥३

सहस्रच्छदस्योपरि स्थापितांह्रिद्वयाऽष्टापदस्येव पीताङ्गवर्णा।
महाभूपसिद्धार्थसूनुप्रभूतप्रभावा वरं रातु सिद्धायिका वः॥४

॥महोपाध्यायधर्मसागरगणिशिष्यपं.गुणसागरगणिविरचिता॥

अपभ्रंशमये वड्ढमाणसामिचरिउ-काव्ये वीरनिर्वाणवर्णनम्

पावापुर वर वणे संपत्तउ सत्त भेय मुणि गण संजुत्तउ।
तहिं तणु सग्गेविहाणें ठाइविं सेसाइं वि कम्मइं विग्घाइवि।
कत्तिय मासि चउत्थइ जामइं कसण चउद्दसि रयणि विरामइं।
गउ णिव्वाण ठाणे परमेसरु तिल्लोकाहिउ वीरु जिणेसरु।

॥विबुधश्रीधरविरचितेऽपभ्रंशमाषामये वर्धमानचरिते वीरनिर्वाणवर्णनम्॥