ज्ञानपञ्चमीस्तुत्यादिसङ्ग्रहः

आ. पुण्यविजयसङ्ग्रहे कार्तिकशक्लपञ्चमीसत्का स्तुतिः

केसरी दुरितदुष्टदन्तिनः श्रीसमुद्रविजयाङ्गजो जिनः।
धीमतां विशदपञ्चमीतपः कुर्वतां दिशतु पुण्यसम्पदः॥१

ये विलीनघनकर्मविकारा ये जिना गतभवार्णवपाराः।
ते दिशन्तु सततं विमलानि पञ्चमीदिनकृतसुकृतानि॥२

यज्जटत्वतिमिरौघभास्करं श्रीजिनेन्द्रवनदादिव निर्गतम्।
पापहारि सितपञ्चमीदिने विश्रुतं श्रुतमहं नमामि तत्॥३

रैवताचलशिरःकृतवासा तनुजयुग्मसहिता हरियाना।
अम्बिका श्रुतनिधौ प्रयतानां सर्वदैव दुरितानि निहन्यात्॥४

(आ. पुण्यविजयसङ्ग्रहे)