आनन्दघनोदयराजतेजसा प्रभवतु ज्ञानमयो हितः सुसिद्धः
Name: Siddhacaturviṃśikā
Author: Ānandaghana
Editor: Kumarpal Desai
Original publisher: L. D. Institute of Indology
Original Publication Name: Sambodhi Journal Vol. 7
Digitised by: Vyom A. Shah
प्रणम्य स्फुरत्स्वर्णशैलप्रभावं प्रभापूरदूरीकृतध्वान्तभावम्।
युगादीश्वरं लब्धविश्वस्वरूपं स्तवे किञ्चिनाऽहं सुसिद्धस्वरूपम्॥१
न पाणिर्न पादौ न मौलिर्न वक्त्रं न वक्षो न श्रोत्रे न कर्णौ न कण्ठः।
न चायुर्न पायुर्न मौलिर्न कायः कषायो भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥२
न खेदो न वेदो न सेकः प्रवेगो न कुन्दं न तुन्दं न बाहुर्न चोरूः।
न जङ्घे न पार्श्वे न चांऽसौ न मांसं भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥३
न रोषो न दोषो न शोषो न पोषो न रागो न यागो न तागो न चामः।
न यानं न पानं न दानं न लाभो भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥४
न यन्त्रं न तन्त्रं न मन्त्रं कलत्रं न मित्रं न चित्रं न वस्त्रं न शस्त्रम्।
न पात्रं न नात्रं न यात्रा न मात्रा भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥५
न तापो न शापो न जापो न लापो न पापं न पुण्यं न गुण्यं हिरण्यम्।
न कालः करालो न भालं विशालं भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥६
अनङ्गो न रङ्गो न भङ्गो न चङ्गो न चङ्गस्तुरङ्गः कुरङ्गो विहङ्गः।
न शाणिर्न वाणि न वेणिर्न वेणो भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥७
न ऋद्धिर्न वृद्धिर्न हानिर्न खानी न केशो न वेशो न नाशो न पाशः।
न नाभिः स नाभिर्न सारङ्गनाभिर्भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥८
न हास्यं न लास्यं न भास्यं न दास्यं न भीतिर्न रीतिर्न गीतिर्न हीतिः।
न भोगो न रागो (रोगो?) वियोगः प्रयोगो भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥९
न लोभः ससम्भो न दम्भो न चाऽम्भो न मोहो न रोहो न द्रोहो न वोहः।
अपायाः सहाया न माया न काया भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१०
न माला न शाला न दोला न लोलो न पीतो न भ्राता न माता पिता न।
न शय्यातिचर्या न पद्मा न पद्मं भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥११
न सैन्यं न दैन्यं न हारः प्रहारो न सूत्रं न मूत्रं न जग्धिः पुरीषम्।
न रक्तं न भक्तं न धर्मो न नक्तं भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१२
न नागो न हि चन्दनाद्याङ्गरागो न कामो न कस्मिंश्चनाऽपि प्रणामः।
न मादो न वादो न सादः प्रसादः भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१३
न वेलापवेला न खेला न हेला न फेला न वेला विपत्तिर्न पत्तिः।
न दन्ता न यन्ता रथा नो न दन्तो भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१४
न कूपो न भूपो न यूपो न रूपो न सर्पो न दर्पः प्रवीणा न वीणा।
न शूलं न तूलं न मूलं न पूलं भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१५
न निद्रा न मुद्रा न पुत्रो न पौत्रो न बन्धुर्न शत्रुर्न सारिर्न मारी।
कफातिर्न वातो न पित्तं न वित्तं भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१६
न कण्ठी न पीठी न यष्टिर्न मुष्टिर्न वंशो न दंशो न गण्डः प्रगण्डः।
न मेषो न वेषो न सूर्यं न कूर्पं भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१७
मृषा नो तृषा नो बुभुक्षा न शिष्या न विघ्नोत्सवामी न दण्डः प्रचण्डः।
न चूडा न चूडामणिर्नैव पीडा भजे तं प्रसिद्धं सदा शुद्धसिद्धम्॥१८
न शीतो न पीतो न तिक्तो कटुर्नो कषायो न चाऽऽम्लो न तिग्मः।
मृदुर्न कठोरो न रोगो न गुल्मः श्रिये श्रीजिनेन्द्रो नतेन्द्रो जितेन्द्रः॥१९
न दुर्गन्धको नो सुगन्धिर्न कृष्णो न नीलः सलीलो न बभ्रुर्न दभ्रः।
न दीर्घो न ह्रस्वो न पीनो न दीनः श्रिये श्रीजिनेन्द्रो नतेन्द्रो जितेन्द्रः॥२०
न तुङ्गो न नीचो न कुब्जो विशालो न सान्द्रो न मन्द्रो न जीर्णो नवीनः।
न दूरं सनीडो न पूर्णो न चान्त्यः श्रिये श्रीजिनेन्द्रो नतेन्द्रो जितेन्द्रः॥२१
न मत्तः प्रमत्तिर्न लोलो न गोलो न सव्योऽपसव्यो न गुप्तः प्रकाशः।
ऋजुर्नो न वक्रो न वृद्धो न बालः श्रिये श्रीजिनेन्द्रो नतेन्द्रो जितेन्द्रः॥२२
बाह्याऽबाह्यकर्मसम्बन्धतोऽमी भावा जीवेऽनेकशः सम्भवन्ति।
कर्माभावात्तन्निषेधेन सिद्धे रम्यं किञ्चिदुक्तं सतत्त्वम्॥२३
वीर्यस्योद्यच्छर्मणो दर्शनस्य ज्ञानस्योच्चैर्नित्यमान्यं तमेव।
व्यक्तीभूतं कर्मणो विप्रयोगाद्धत्ते यस्तं सिद्धमीडे प्रशस्तम्॥२४
इति किमपि च तत्स्वरूपः तप्तः प्रगटनभङ्ग्या निवेशितः सिद्धः।
आनन्दघनोदयराजतेजसा प्रभवतु ज्ञानमयो हितः सुसिद्धः॥२५॥